|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.113. अध्यायः 113
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति गोमहिमप्रतिपादकविसिष्ठसौदाससंवादानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
वैशम्पायन उवाच।
एवमुक्त्वा ततो भीष्मः पुनर्धर्मसुतं नृपम्।
जनमेजयभूपाल उवाचेदं सहेतुकम्॥ 13-113-1(85908)
एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम्।
इक्ष्वाकुवंशजो राजा सौदासो वदतां वरः॥ 13-113-2(85909)
सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम्।
पुरोहितमभिप्रष्टुमभिवाद्योपचक्रमे॥ 13-113-3(85910)
त्रैलोक्ये भगवन्किंस्वित्पविइत्रं कथ्यतेऽनघ।
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम्॥ 13-113-4(85911)
भीष्म उवाच। 13-113-5x(7123)
तस्मै प्रोवाच वचनं प्रणताय हितं तदा।
गवामुपनिषद्विद्यां नमस्कृत्य गवां शुचिः॥ 13-113-5(85912)
गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धयः।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्॥ 13-113-6(85913)
गावो भूतं च भव्यं च गावः पुष्टिः सनातनी।
गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति॥ 13-113-7(85914)
अन्नं हि परमं गावो देवानां परमं हविः।
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ॥ 13-113-8(85915)
गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः।
गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः॥ 13-113-9(85916)
सायं प्रातश्च सततं होमकाले महाद्युते।
गावो ददति वै हौम्यमृषिभ्यः पुरुषर्षभ॥ 13-113-10(85917)
यानि कानि च दुर्गाणि दुष्कृतानि कृतानि च।
तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो॥ 13-113-11(85918)
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती।
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते॥ 13-113-12(85919)
अनाहिताग्निः शतगुरयज्वा च सहस्रगुः।
समृद्धो यश्च कीनाशो नार्घमर्हन्ति ते त्रयः॥ 13-113-13(85920)
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम्।
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते॥ 13-113-14(85921)
युवानमिन्द्रियोपेतं शतेन सहयूथपम्।
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम्॥ 13-113-15(85922)
वृषबं ये प्रयच्छन्ति श्रोत्रियाय परन्तप।
ऐश्वर्यं तेऽधिगच्छन्ति जायमानाः पुनःपुनः॥ 13-113-16(85923)
नाकीर्तयित्वा गाःक सुप्यात्तासां संस्मृत्य चोत्पतेत्।
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात्॥ 13-113-17(85924)
गवां मूत्रपुरीषस्य नोद्विजेत कथञ्चन।
न चासां मांसमश्नीयाद्गवां पुष्टिं तथाऽऽप्नुयात्॥ 13-113-18(85925)
गाश्च संकीर्तयन्नित्यं नावमन्येत तास्तथा।
अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत्॥ 13-113-19(85926)
गोमयेन सदा स्नायाद्गोकरीषे च संविशेत्।
श्लोष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत्॥ 13-113-20(85927)
सार्द्रे चर्मणि भुञ्जीत निरीक्षेद्वारुणीं दिशम्।
वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं सदाऽऽश्नुते॥ 13-113-21(85928)
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्।
घृतं दद्याद्धृतं प्राशेद्गवां व्युष्टिं सदाऽऽश्नुते॥ 13-113-22(85929)
गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः।
सर्वरत्नमयीं दद्यान्न स शोचेत्कृताकृते॥ 13-113-23(85930)
गावो मामुपतिष्ठन्तु हेमशृङ्ग्यः पयोमुचः।
सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा॥ 13-113-24(85931)
गा वै पश्याम्यहं नित्यं गावः पश्यन्तु मां सदा।
गावोस्माकं वयं तासां यतो गावस्ततो वयम्॥ 13-113-25(85932)
एवं रात्रौ दिवा चापि समेषु विषमेषु च।
महाभयेषु च नरः कीर्तयन्मुच्यते भवात्॥ ॥ 13-113-26(85933)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः॥ 113 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-113-13 कीनाशः कर्षकः कृपणो वा। अर्घं पूजाम्॥ 7-113-21 सौम्ये चर्मणीति ध.पाठः॥ 7-113-23 गोमाँ अग्नेविमाँ अश्वीति मन्त्रो गोमती॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|